(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.26. अध्यायः 026
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण स्वपरयोः शुभाशुभाभिसन्धिकथनपूर्वकं स्वस्याजय्यत्वमभिधाय इन्द्रप्रस्थे राज्यदाने शान्तिकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

युधिष्ठिर उवाच। 5-26-0x(3427)(32454)
कां नु वाचं सञ्जय मे शृणोषि।
युद्धैषिणीं येन युद्धाद्बिभेषि ।
अयुद्धं वै तात युद्धाद्गरीयः
कस्तल्लब्ध्वा जातु युद्ध्येत सूत ॥ 5-26-1(32455)
अकुर्वतश्चेत्पुरुषस्य सञ्जय
सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्।
न कर्म कुर्याद्विदितं ममैत-
दन्यत्र युद्धाद्बहु यल्लघीयः ॥ 5-26-2(32456)
कुतो युद्धं जातु नरोऽवगच्छे-
त्को देवशप्तो हि वृणीत युद्धम्।
सुखैषिणः कर्म कुर्वन्ति पार्था
धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ 5-26-3(32457)
धर्मोदयं सुखमाशंसमानाः
कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्।
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं
कर्मारभेद्यच्च धर्मानपेतम् ॥ 5-26-4(32458)
क इन्द्रियाणां प्रीतिवशानुरानां
कर्माभिज्ञः स्वशरीरं दुनोति।
यया प्रमुक्तो न करोति दुःखं
तृष्णां त्यजेत्सर्वधर्मादपेताम् ॥ 5-26-5(32459)
यथेध्यमानस्य समिद्धतेजसो
भूयो बलं वर्धते पावकस्य।
कामार्थलाभेन तथैव भूयो
न तृप्यते सर्पिषेवाग्निरिद्धः ।
संपश्येमं भोगचयं महान्तं
सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥ 5-26-6(32460)
नाश्रेयानीश्वरो विग्रहाणां
नाश्रेयान्वै गीतशब्दं श्रृणोति।
नाश्रेयान्वै सेवते माल्यगन्धा-
न्न चाप्यश्रेयाननुलेपनानि ॥
नाश्रेयान्वै प्रावारान्संविवस्ते
कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ॥ 5-26-7(32461)
अत्रैव स्यादवुधस्यैव कामः।
प्रायः शरीरे हृदयं दुनोति ॥ 5-26-8(32462)
स्वयं राजा विषमस्थः परेषु
सामर्थ्यमन्विच्छति तन्न साधु।
यथाऽऽत्मनः पश्यति वृत्तमेव
तथा परेतामपि सोऽभ्युपैति ॥ 5-26-9(32463)
आसन्नमग्निं तु निदाघकाले
गम्भीरकक्षे गहने विसृज्य।
यथा विवृद्धं वायुवशेन शोचे-
त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ 5-26-10(32464)
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा
लालप्यते सञ्जय कस्य हेतोः ।
प्रगृह्य दुर्बुद्धिमनार्जवे रतं
पुत्रं मन्दं मूढममन्त्रिणं तु ॥ 5-26-11(32465)
अनाप्तवच्चाप्ततमस्य वाचः
सुयोधनो विदुरस्यावमत्य।
सुतस्य राजा धृतराष्ट्रः प्रियैषी
संबुध्यमानो विशतेऽधर्ममेव ॥ 5-26-12(32466)
मेधाविनं ह्यर्थकामं कुरूणां
बहुश्रुतं वाग्मिनं शीलवन्तम् ।
स तं राजा धृतराष्ट्रः कुरुभ्यो
न सस्मार विदुरं पुत्रकाम्यात् ॥ 5-26-13(32467)
मानघ्नस्यासौ मानकामस्य चेर्षोः
संरम्भिणश्चार्थधर्मातिगस्य।
दुर्भाषिणो मन्युवशानुगस्य
कामात्मनो दौर्हृदैर्भावितस्य ॥ 5-26-14(32468)
अनेयस्याश्रेयसो दीर्घमन्यो-
र्मित्रद्रुहः सञ्जय पापबुद्धेः।
सुतस्य राजा धृतराष्ट्रः प्रियैषी
प्रपश्यमानः प्राजहाद्धर्मकामौ ॥ 5-26-15(32469)
तदैव मे सञ्जय दीव्यतोऽभू-
न्मतिः कुरूणामागतः स्यादभावः ।
काव्यां वाचं विदुरो भाषमाणो
न विन्दते यद्धार्तराष्ट्रात्प्रशंसाम् ॥ 5-26-16(32470)
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं
कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम।
यावत्प्रज्ञामन्ववर्तन्त तस्य
तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥ 5-26-17(32471)
तदर्थलुब्धस्य निबोध मेऽद्य
ये मन्त्रिणो धार्तराष्ट्रस्य सूत।
दुःशासनः शकुनिः सूतपुत्रो
गावल्गणे पश्य संमोहमस्य ॥ 5-26-18(32472)
सोऽहं न पश्यामि परीक्षमाणः
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः
प्रव्राजिते विदुरे दीर्घदृष्टौ ॥ 5-26-19(32473)
आशंसते वै धृतराष्ट्रः सपुत्रो
महाराज्यमसपत्नं पृथिव्याम्।
तस्मिञ्शमः केवलं नोपलभ्यः
सर्वं स्वकं मद्गते मन्यतेऽर्थम् ॥ 5-26-20(32474)
यत्तत्कर्णो मन्यते पारणीयं
युद्धे गृहीतायुधमर्जुनं वै ।
आसंश्च युद्धानि पुरा महान्ति
कथं कर्णो नाभवद्द्वीप एषाम् ॥ 5-26-21(32475)
कर्णश्च जानाति सुयोधनश्च
द्रोणश्च जानाति पितामहश्च।
अन्ये च ये कुग्वस्तत्र सन्ति
यथाऽर्जुनान्नाम्त्यपरो धनुर्धरः ॥ 5-26-22(32476)
जानन्त्येतन्कुरवः सर्व एव
ये चाप्यन्ये भूमिपालाः समेताः।
दुर्योधने राज्यमिहाभवद्यथा
अरिन्दमे फाल्गुनेऽविद्यमाने ॥ 5-26-23(32477)
तेनानुबन्धं मन्यते धार्तराष्ट्रः
शक्यं हर्तुं पाण्डवानां ममत्वम् ।
किरीटिना तालमात्रायुधेन
तद्वेदिना संयुगं तत्र गत्वा ॥ 5-26-24(32478)
गाण्डीवविष्फारितशब्दमात्रं
श्रुत्वैव ते धार्तराष्ट्रा म्रियन्ते।
क्रुद्धं न चेदीक्षते भीमसेनं
सुयोधनो मन्यते सिद्धमर्थम् ॥ 5-26-25(32479)
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु-
मैश्वर्यं नो जीवति भीमसेने।
धनञ्जये नकुले चैव सूत
तथा वीरे सहदेवेऽसहिष्णौ ॥ 5-26-26(32480)
सचेदेतां प्रतिपद्येत बुद्धिं
वृद्धो राजा सह पुत्रेण सूत।
एवं रणे पाण्डवकोपदग्धा
न नश्येयुः सञ्जय धार्तराष्ट्राः ॥ 5-26-27(32481)
जानामि त्वं क्लेशमस्मासु वृत्तं
त्वां पूजयन्मञ्जयाहं क्षमेयम्।
वच्चास्माकं कौरवैर्भृतपूर्वं
या नो वृत्तिधार्तराष्ट्रे तदाऽऽसीत् ॥ 5-26-28(32482)
अद्यापि सा तत्र तथैव वर्ततां
यान्ति गमिष्यामि यथा न्वमात्थ ।
द्वन्द्राप्रव्ये भवतु ममैव राज्यं
सूयोधनो यच्छतु भाग्नाग्र्यः ॥ ॥ 5-26-29(32483)

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि षड्विंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-26-3 अहीनं अनपगतम् ॥ 3 ॥ 5-26-6 उक्तमर्थं प्रकृते योजयति संपश्येति। अस्माभिरित्यत्र धार्तराष्ट्रान् अन्तर्भाव्याह । पञ्चाधिकेन पुत्रशतेन सह धृतराष्ट्रस्य भोगं महान्तं पश्य। अथापि कृत्स्नं स्वस्यैव भवत्विति बुद्ध्याऽस्मान् राज्याद्दूरीकृत्य ततो भोगात् तृप्तिं न लभत इति भावः ॥ 6 ॥ 5-26-7 पितृव्यनिन्दादोषाद्भीतः पुनराह नाश्रेयानिति। यः पुण्यवत्तरः स विग्रहाणामीश्वरो भवति परैः सह विरोधं कृत्वा स्वोत्कर्षं करोति। अन्यस्तु तेनैव नश्यति। अतः स पुण्यवत्तर एव। अस्मद्दोषात्तु वयं वने दुःखमनुभवामो नतु परापराधेनेति भावः । प्रावारान् दिव्यवासांसि संविवस्ते परिधत्ते। अन्यधा अश्रेयांश्चेद्राजा तर्हि अस्मान् कुरुभ्यः कथं संप्रणुदेत् दूरीकुर्यात्। शत्रूणां राज्याद्भ्रंशनं हि पुण्यवतामेव कर्म नाश्रेयसामिति भावः ॥ 7 ॥ 5-26-8 अत्रेति यद्यप्येवं तथापि अन्तर्दाहकरोऽयं कामः अबुधस्य दुर्योधनादेरेव उचितो न बुधस्यास्मदादेरित्यर्थः। शरीरे शरीरमध्ये स्थितं हृदयं दुनोति खेदयति ॥ 8 ॥ 5-26-9 अबुधत्वमेवाह स्वयमिति। विषमस्थः संकटस्थः सन् परेषु कर्णादिषु आत्मनो वृत्तं अशक्तत्वं तथा परेषां कर्णादीनामपि स दुर्योधनोऽभ्युपैति ॥ 9 ॥ 5-26-10 गम्भीरकक्षे बहुतृणे गहने वने। क्षेमं शोचेत् मम सुखं नास्तीति शोकं कुर्यात्। मुमुक्षुः तस्माद्दाहादात्मानं मोचयितुमिच्छुः । शिशिरव्यापाये वसन्ते। तत्रापि निदाघकाले दाहकाले मध्याह्ने ॥ 10 ॥ 5-26-11 लालप्यते दीनवद्भाषते। मन्दं अभाग्यम् ॥ 5-26-12 विदुरस्य वाचोऽवमत्य सुतस्य प्रियैषी अधर्ममेव संविशते आश्रयते ॥ 5-26-13 कुरुभ्यः कुरूणां हितार्थम्। न सस्मार नादृतवान्। पुत्रकाम्यात् पुत्रलोभात् ॥13 ॥ 5-26-14 असौ राजा सुतस्य प्रियैषी धर्मकामौ प्राजहात् त्यक्तवानिति द्वयोः संबन्धः । ईर्षोः परोत्कर्षासहिष्णोः । संरम्भिणः क्रोधिनः मन्युवशानुगस्य दैन्यभाजां कर्णादीनामनुगस्य। दौर्हृदैः पापैः भावितस्य पूजितस्य ॥ 14 ॥ 5-26-15 अनेयस्य अशिक्षणीयस्य। अश्रेय सः अभाग्यस्य प्रपश्यमानः पश्यन्नपि ॥ 15 ॥ 5-26-20 तस्मिन् लुब्धे शमः न उपलभ्यः यः मद्गते मम वनंप्रति गमने सति सर्वं स्वकमेवार्थं मन्यते इति योज्यम् ॥ 20 ॥ 5-26-21 पारणीयं जेतुं शक्यम्। युद्धानि गोग्रहृदौ आसन्। द्वीपो द्वीपवत् युद्धप्रवाहेण उह्यमानस्याश्रयः ॥ 21 ॥ 5-26-24 अनुबन्धं बध्नातीति बन्धो राज्यादिः तमनुमूल्य वर्तमानं पाण्डवानां ममत्वं धार्तराष्ट्रो हर्तुं शक्यमन्यते। किंकृत्वा । तेन किरीटिना सह तत्र राज्ये निमित्ते सति संयुगं संग्रामं गत्वा प्राप्य । तालो हस्तचतुष्टयं तद्वेदिना धनुर्विद्यावेदिना ॥ 24 ॥ 5-26-27 एतां बुद्धिं राज्यस्य अप्रदाने नाशोऽस्तीत्येवंरूपाम् ॥ 27 ॥ 5-26-28 भूतपूर्वं भीमबन्धनजतुगृहदाहादि ॥ 28 ॥ 5-26- 5-26- 5-26- 5-26- 5-26-


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.